ऋषि: - ब्रह्मा, भृग्वङ्गिराःदेवता - इन्द्राग्नी, आयुः, यक्ष्मनाशनम्छन्दः - त्रिष्टुप्सूक्तम् - दीर्घायुप्राप्ति सूक्त
সহস্রাক্ষেণ শতবীর্য়েণ শতায়ুষা হবিষাহার্ষমেনম্।
ইন্দ্রো য়থৈনম্ শরদো নয়াত্যতি বিশ্বস্য দুরিতস্য পারম্।। (অথর্বঃ ৩|১১|৩)
स॑हस्रा॒क्षेण॑ श॒तवी॑र्येण श॒तायु॑षा ह॒विषाहा॑र्षमेनम्।
इन्द्रो॒ यथै॑नं श॒रदो॒ नया॒त्यति॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रम् ॥
स्वर सहित पद पाठस॒ह॒स्र॒ऽअ॒क्षेण॑ । श॒तऽवी॑र्येण । श॒तऽआ॑युषा । ह॒विषा॑ । आ । अ॒हा॒र्ष॒म् । ए॒न॒म् । इन्द्र॑: । यथा॑ । ए॒न॒म् । श॒रद॑: । नया॑ति । अति॑ । विश्व॑स्य । दु॒:ऽइ॒तस्य॑ । पा॒रम् ॥११.३॥
स्वर रहित मन्त्र
सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम्। इन्द्रो यथैनं शरदो नयात्यति विश्वस्य दुरितस्य पारम् ॥
स्वर रहित पद पाठसहस्रऽअक्षेण । शतऽवीर्येण । शतऽआयुषा । हविषा । आ । अहार्षम् । एनम् । इन्द्र: । यथा । एनम् । शरद: । नयाति । अति । विश्वस्य । दु:ऽइतस्य । पारम् ॥११.३॥
विषय - रोग नाश करने के लिये उपदेश।
पदार्थ -
(सहस्राक्षेण) सहस्रों नेत्रवाले, (शतवीर्येण) सैकड़ों सामर्थ्यवाले (शतायुषा) सैकड़ों जीवनशक्तिवाले (हविषा) आत्मदान वा भक्ति से (एनम्) इस [आत्मा] को (आ अहार्षम्) मैंने उभारा है। (यथा) जिससे (इन्द्रः) ऐश्वर्यवान् मनुष्य (एनम्) इस [देही] को (विश्वस्य) प्रत्येक (दुरितस्य) कष्ट के (पारम्) पार (अति=अतीत्य) निकालकर (शरदः) [सौ] शरद् ऋतुओं तक (नयाति) पहुँचावे ॥३॥
भावार्थ - जब मनुष्य एकाग्रचित्त होकर अनेक प्रकार से अपनी दर्शनशक्ति, कर्मशक्ति और जीविकाशक्ति बढ़ाकर अपने को सुधारता है, तब वह इन्द्र पुरुष सब उलझनों को सुलझाकर यशस्वी होकर चिरंजीवी होता है ॥अथर्ववेद भाष्य (पण्डित क्षेमकरणदास त्रिवेदी)
टिप्पणी -
३−(सहस्राक्षेण)। सहस्रम् बहुनाम-निघ० ३।१। सहो बलम्-निघ० २।९। रो मत्वर्थीयः। सहस्रं सहस्वत्-निरु० ३।१। बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्। पा० ५।४।११३। इति षच्। सहस्रं बहूनि अक्षीणि चक्षूंषि दर्शनशक्तयो यस्य तेन तथोक्तेन। (शतवीर्येण)। शतम्। शो तीक्ष्णीकरणे-डतच्। बहुनाम। निघ० ३।१। शतं दशदशतयः-निरु० ३।१०। बहुसामर्थ्योपेतेन। (शतायुषा)। बहुजीवनसाधनयुक्तेन। (हविषा)। आत्मदानेन। भक्त्या। (आ अहार्षम्)। हृञ् हरणे-लुङ् समन्ताद् अनैषम्। उन्नीतवानस्मि। (एनम्)। आत्मानम्। देहिनम्। (इन्द्रः)। प्रतापी जीवः। (यथा)। येन प्रकारेण। (शरदः)। कालाध्वनोरत्यन्तसंयोगे। पा० २।३।५। इति द्वितीया। शतं शरदः संवत्सरान्। (नयाति)। णीञ् प्रापणे लेटि आडागमः। नयेत्। प्रापयेत्। (अति)। अतीत्य। (विश्वस्य)। सर्वस्य। प्रत्येकस्य। (दुरितस्य)। अ० २।६।५। पापस्य। कष्टस्य। (पारम्)। पार कर्मसमाप्तौ-अच्। तीरम्। अन्तम् ॥
No comments:
Post a Comment
ধন্যবাদ